(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.339. अध्यायः 339
Mahabharata - Shanti Parva - Chapter Topics
नारदवचनाज्जातवैराग्येण शुकेन सूर्यमण्डलप्रविविक्षया व्यासनारदयोर्निवेदनपूर्वकं कैलासशिखरारोहणम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

नारद उवाच। 12-339-0x(6557)(79245)
सुखदुःखविपर्यासो यदा समनुपद्यते।
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम्॥ 12-339-1(79246)
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति।
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत्॥ 12-339-2(79247)
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः॥ 12-339-3(79248)
व्यथितस्य विधित्साभिस्त्रस्यतो जीवितैषिणः।
अवशस्य विनाशाय शरीरमपकृष्यते॥ 12-339-4(79249)
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव।
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः॥ 12-339-5(79250)
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः।
जातान्मर्त्याञ्जरयति निमेषान्नावतिष्ठते॥ 12-339-6(79251)
सुखदुःखानि भूतानामजरो जरयत्यसौ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च॥ 12-339-7(79252)
अदृष्टपूर्वानादाय भावानपरिशङ्कितान्।
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः॥ 12-339-8(79253)
योयदिच्छेद्यथाकाममयत्नाच्च तदाप्नुयात्।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्॥ 12-339-9(79254)
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः॥ 12-339-10(79255)
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः।
अशुभैरपि संयुक्ता दृश्यन्ते सर्वकामिनः॥ 12-339-11(79256)
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः।
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते॥ 12-339-12(79257)
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठते।
कश्चित्कर्मानुसृत्यान्यो नाप्राप्यमधिगच्छति॥ 12-339-13(79258)
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः।
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति॥ 12-339-14(79259)
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा।
आम्रपुष्पोपमा यस्य निर्वृत्तिरुपलभ्यते॥ 12-339-15(79260)
केषांचित्पुत्रकामानामनुसन्तानमिच्छताम्।
सिद्धौ प्रयतमानानां न चाण्डमुपजायते॥ 12-339-16(79261)
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव।
आयुष्माञ्जायते पुत्रः कथं प्रेतः पितेव ह॥ 12-339-17(79262)
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः।
दश मासान्परिधृता जायन्ते कुलपांसनाः॥ 12-339-18(79263)
अपरे धनधान्यानि भोगांश्च पितृसंचितान्।
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः॥ 12-339-19(79264)
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे।
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते॥ 12-339-20(79265)
शीर्णं परशरीराणि च्छिन्नबीजं शरीरिणम्।
प्राणिनं प्राणंसरोधे मांसश्लेष्मविचेष्टितम्॥ 12-339-21(79266)
निर्दग्धं परदेहेऽपि परदेहं चलाचलम्।
विनश्यन्तं विनाशान्ते भावि नावमिवाहितम्॥ 12-339-22(79267)
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्।
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि॥ 12-339-23(79268)
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः।
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते॥ 12-339-24(79269)
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः।
धारणे वा विसर्गे वा न कर्ता विद्यतेऽवशः॥ 12-339-25(79270)
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथा परे।
आगमेन तथाऽन्येषां विनाश उपपद्यते॥ 12-339-26(79271)
एतस्माद्योनिसंबन्धाद्यो जीवः परिमुच्यते।
प्रजां च लभते कांचित्पुनर्द्वन्द्वेषु सज्जति॥ 12-339-27(79272)
स तस्य सहजातस्य सप्तमीं नवमीं दशाम्।
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः॥ 12-339-28(79273)
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः॥
व्याधिभिश्च विमथ्यन्ते व्याधैः क्षुद्रमृगा इव॥ 12-339-29(79274)
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम्।
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः॥ 12-339-30(79275)
ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः।
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः॥ 12-339-31(79276)
ते पिबन्तः कषायांश्च सर्पीषि विविधानि च।
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः॥ 12-339-32(79277)
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः।
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते॥ 12-339-33(79278)
पौरानपि दुराधर्षान्नृपतीनुग्रतेजसः।
आक्रम्य खादन्ते रोगाः पशून्पशुपचा इव॥ 12-339-34(79279)
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्।
स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा॥ 12-339-35(79280)
न धनेन न राज्येन नोग्रेण तपसा तथा।
स्वभावमतिवर्तन्ते ये नियुक्ताः शरीरिणः॥ 12-339-36(79281)
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिनः।
नाप्रियं प्रतिपश्येयुरुत्थानस्य फले सति॥ 12-339-37(79282)
उपर्युपरि लोकस्य सर्वो भवितुमीहते।
यतते च यथाशक्ति न च तद्वर्तते तथा॥ 12-339-38(79283)
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च।
अप्रमत्ताश्च शूराश्च विक्रान्ताः पर्युपासते॥ 12-339-39(79284)
क्लेशाः प्रतिनिवर्तन्ते केषांचिदसमीक्षिताः।
स्वंस्वं न पुनरन्येषां न किंचिदधिगम्यते॥ 12-339-40(79285)
महच्च फलवैपम्यं दृश्यते कर्मसिद्धिषु।
वहन्ति शिविकामन्ये यान्त्यन्ये शिविकागताः॥ 12-339-41(79286)
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः।
मनुजाश्च गतस्त्रीकाः शतशो विविधाः स्त्रियः॥ 12-339-42(79287)
द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः।
इदमन्यत्परं पश्य माऽत्र मोहं करिष्यसि॥ 12-339-43(79288)
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज॥ 12-339-44(79289)
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम।
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः॥ 12-339-45(79290)
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान्।
संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत॥ 12-339-46(79291)
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्छ्रमः।
किंनु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम्॥ 12-339-47(79292)
ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः।
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम्॥ 12-339-48(79293)
कथं त्वहमसंश्लिष्टो गच्छेयं गतिमुत्तमाम्।
नावर्तेयं यथा भूयो योनिसंसारसागरे॥ 12-339-49(79294)
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः।
सर्वसङ्गान्परित्यज्य निश्चितो मनसा गतिम्॥ 12-339-50(79295)
तत्र यास्यामि यत्रात्मा शर्म मेऽधिगमिष्यति।
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः॥ 12-339-51(79296)
न तु योगमृते शक्त्या प्राप्नुयां परमां गतिम्।
अनुबन्धो विमुक्तस्य कर्मभिर्नोपपद्यते॥ 12-339-52(79297)
यस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम्।
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम्॥ 12-339-53(79298)
न ह्येप क्षयतां याति सोमः सुरगणैर्यथा।
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति॥ 12-339-54(79299)
क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते।
नेच्छाम्येवं विदित्वैते ह्रासवृद्धी पुनः पुनः॥ 12-339-55(79300)
रविस्तु संतापयते लोकान्रश्मिभिरुल्बणैः।
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः॥ 12-339-56(79301)
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम्।
अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना॥ 12-339-57(79302)
सूर्यस्यर सदने चाहं निक्षिप्येदं कलेवरम्।
ऋषिभिः सह वत्स्यामि सौरं तेजोऽतिदुःसहं॥ 12-339-58(79303)
आपृच्छामि नगान्नागान्गिरीनुर्वी दिशो दश।
देवदानवगन्धर्वान्पिशाचोरगराक्षसान्॥ 12-339-59(79304)
लोकेषु सर्वभूतानि प्रवेक्ष्यामि न संशयः।
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः॥ 12-339-60(79305)
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम्।
तस्मादनुज्ञां संप्राप्य जगाम पितरं प्रति॥ 12-339-61(79306)
सोऽभिवाद्य महात्मानं कृष्णद्वैपायनं मुनिम्।
शुकः प्रदक्षिणं कृत्वा कृष्णमापृष्टवान्मुनिम्॥ 12-339-62(79307)
श्रुत्वा चर्षिस्तद्वचनं शुकस्य
प्रीतो महात्मा पुनराह चैनम्।
भोभो पुत्र स्थीयतां तावदद्य
यावच्चक्षुः प्रीणयामि त्वदर्थे॥ 12-339-63(79308)
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तसंशयः।
मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे॥ 12-339-64(79309)
पितरं स परित्यज्य जगाम मुनिसत्तमः।
कैलासपृष्ठं विपुलं सिद्धसङ्घनिषेवितम्॥ ॥ 12-339-65(79310)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनचत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 339॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-339-1 विपर्यासः सुखे दुःखधीर्दुःखे सुखधीः॥ 12-339-4 विधित्साभिः पिपासाभिस्तृष्णाभिः॥ 12-339-6 व्यत्ययः पौर्वापर्यम्॥ 12-339-11 अशीर्भिरप्यसंयुक्ताः इति ध. पाठः॥ 12-339-13 कर्मी कर्मानुसृत्यान्य इति थ. पाठः। कश्चिच्च कर्म कुर्वन्हि नाप्राप्यमिति ध. पाठः॥ 12-339-17 कथं प्रेत्य इवाभवदिति झ. पाठः॥ 12-339-27 यो बीजं परिमुच्यत इति झ. पाठः॥ 12-339-28 सहजातस्य जन्माद्यन्तां तु वै दशामिति ध. पाठः। न भवन्ति गतायुष इति झ. पाठः॥ 12-339-29 रोगाः स्युरिति ध. पाठः। योगाः सामर्थ्यानि॥ 12-339-33 के बाहुर्विचिकित्सन्ते इति ट. ध. पाठः॥ 12-339-34 धीरानपि दुराधर्षानिति ध. पाठः॥ 12-339-35 अनाकन्दं वेदनया मूढम्॥ 12-339-36 स्वभावान्नातिवर्तन्ते ये नियुक्ताः शरीरिष्विति ट. थ. ध. पाठः॥ 12-339-37 उत्थानस्य फलं प्रति इति थ. ध. पाठः॥ 12-339-40 स्वंस्वं च पुनरन्येषामिति झ. पाठः॥ 12-339-42 गतश्रीका इति ट. पाठः॥ 12-339-49 असंश्लिष्टः सर्वोपाधिनिर्मुक्तः॥ 12-339-52 शक्या प्राप्तुं सा परमा गतिरिति थ. पाठः। अवबन्धो हि युक्तस्येति थ. पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.